प्रथमतया गणपतिमभिवन्द्य अद्य पुण्ये दिने स्वाभिलषितानां विचाराणाम् उट्टङ्कनं क्रियते मया। अस्मिन् विशेषटिप्पणे प्राचीनपरम्परायाः वैशिष्ट्यं किञ्चित् प्रकाशयामि। मया यदा गुरुकुले अध्ययनं क्रियते स्म, तदा आचार्याः प्रो. रामचन्द्रभट्टाः सर्वदा ’साक्षात्कृतधर्माणो ऋषयो बभूवुः’ इति वाक्यम् उच्चरन्ति स्म। तदा मम बोधः सूक्ष्मतया न भवति स्म। किन्तु तस्य वाक्यस्य अर्थमेवं प्रकाशयितुं शक्नोमि इति भाति।
ये धर्मं पालयन्ति, अर्थात् स्वस्य जीवने आचरणेन प्रतिपादयन्ति ते खलु ऋषयः इति कथ्यन्ते। सर्वदा अन्येषां हितमिच्छन्तः, अन्येषां दुःखे साहाय्यं कुर्वन्तः ये जीवनं यापयन्ति ते खलु ऋषयः। धर्मः नाम नान्यत् किञ्चित्, स्वेन कर्त्वव्यत्वेन निश्चितानां कार्याणां पालनमेव धर्मः। तदेव साक्षात्करणं नाम। आधुनिके अर्थात् अद्यतने जीवने अस्माभिः ये अंशाः उत्तमतया ज्ञाताः, अथवा ये अंशाः उत्तमाः किन्तु अज्ञाताः तेषां ज्ञानार्थं यत्नः, तेषां प्रत्यहं जीवने पालनाय यत्नः एव अस्माभिः कर्तव्यः धर्मः। अतः एव अस्माकं पितरः, प्रपितरः वा स्वस्य कार्यं सम्यक् कुर्वन्तः अस्मान् तथैव कर्तुं प्रेरयन्ति। ते खलु ऋषयः, स्वकर्तव्यबोधः येषां मनस्सु विद्यते।
अतः एव ऋषीणां पुनराद्यानां वाचमर्थोनुधावति इति उक्तिः स्वेनोक्तं निश्चप्रचं कर्तव्यमेव इति प्रेरणां ददाति। ऋषयः आद्याः वा यद्वदन्ति तद्भवति इति तस्य वाक्यस्य अर्थः। तथा भवति इत्यस्य कारणं तैः पूर्वं स्वकर्तव्यबोधपरतया कार्यं कृतम्, क्रियमाणम्, करिष्यते च। तदेव फलरूपेण स्थितम् अर्थपूर्णं भवति इति ज्ञातव्यम्।
।इति शम्।
Comments